|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.71. अध्यायः 071
Mahabharata - Drona Parva - Chapter Topics
युधिष्ठिरं समाश्वास्य स्वाश्रमगमनम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
व्यास उवाच। 7-71-0x(4433)(47300)
पुण्यमाख्यानमायुष्यं श्रुत्वा षोडशराजकम्।
अव्याहरन्नरपतिस्तूष्णीमासीत्स सृञ्जयः॥ 7-71-1(47301)
तमब्रवीत्तदा दीनं नारदो भगवानृषिः।
कच्चिन्मया व्याहृतं यद्धृदये तत्स्थितं तव॥ 7-71-2(47302)
आहोस्विदन्ततो नष्टं श्राद्धं शूद्रीपताविव।
स एवमुक्तः प्रत्याह प्राञ्जलिः सृञ्जयस्तदा॥ 7-71-3(47303)
पुत्रशोकापहं श्रुत्वा धन्यमाख्यानमुत्तमम्।
राजर्षीणां पुराणानां यज्वनां दक्षिणावताम्॥ 7-71-4(47304)
विस्मयेन हृते शोके तमसीवार्कतेजसा।
विपाप्माऽस्म्यव्यथोपेतो ब्रूहि किं करवाण्यहम्॥ 7-71-5(47305)
नारद उवाच। 7-71-6x(4434)
दिष्ट्यापहतशोकस्त्वं वृणीष्वेह यदिच्छसि।
तत्ते सम्पत्स्यते सर्वं न मृषावादिनो वयम्॥ 7-71-6(47306)
सृञ्जय उवाच। 7-71-7x(4435)
पावितोऽहमनेनैव प्रसन्नो यद्भवान्मम्।
प्रसन्नो यस्य भगवान्न तस्यास्तीह दुर्लभम्॥ 7-71-7(47307)
नारद उवाच। 7-71-8x(4436)
पुनर्ददामि ते पुत्रं दस्युभिर्निहतं वृथा।
उद्धृत्य नरकात्कष्टात्पशुवत्प्रोक्षितं यथा॥ 7-71-8(47308)
व्यास उवाच। 7-71-9x(4437)
प्रादुरासीत्ततः पुत्रः सृञ्जयस्याद्भुतप्रभः।
प्रसन्नेनर्षिणा दत्तः कुबेरतनयोपमः॥ 7-71-9(47309)
ततः सङ्गम्य पुत्रेण प्रीतिमानभवन्नृपः।
ईजे च क्रतुभिः पुण्यैः समाप्तवरदक्षिणैः॥ 7-71-10(47310)
अकृतार्थश्च भीतश्च न च सन्नाहकोविदः।
अयज्वाचानपत्यश्च ततोऽसौ जीवितः पुनः॥ 7-71-11(47311)
शूरो वीरः कृतार्थश्च प्रमथ्यारीन्सहस्रशः।
अभिमन्युर्गतः स्वर्गं सङ्ग्रामेऽभिमुखाहतः॥ 7-71-12(47312)
ब्रह्मचर्येण याँल्लोकान्प्रजया च श्रुतेन च।
इष्टैश्च क्रतुभिर्यान्ति तांस्ते पुत्रोऽक्षयान्गतः॥ 7-71-13(47313)
विद्वांसः कर्मभिः पुण्यैः स्वर्गमीहन्ति नित्यशः।
न तु स्वर्गादयं लोकः काम्यते स्वर्गवासिभिः॥ 7-71-14(47314)
तस्मात्स्वर्गगतं पुत्रमर्जुनस्य हतं रणे।
न चेहानयितुं शक्यं किञ्चिदप्राप्यमीहितम्॥ 7-71-15(47315)
यां योगिनो ध्यानविविक्तदर्शनाः
प्रयान्ति यां चोत्तमयज्विनो जनाः।
तपोभिरिद्धैरनुयान्ति यां तथा
तामक्षयां ते तनयो गतो गतिम्॥ 7-71-16(47316)
अन्तात्पुनर्भावगतो विराजते
राजेव वीरो ह्यमृतात्मरश्मिभिः।
तामैन्दवीमात्मतनुं द्विजोचितां
गतोऽभिमन्युर्न स शोकमर्हति॥ 7-71-17(47317)
एवं ज्ञात्वा स्थिरो भूत्वा मा शुचो धैर्यमाप्नुहि।
जीवन्हि पुरुषः शोच्यो न तु स्वर्गगतोऽनघ॥ 7-71-18(47318)
शोचतो हि महाराज अघमेवाभिवर्धते।
तस्माच्छोकं परित्यज्य श्रेयसे प्रयतेद्बुधः॥ 7-71-19(47319)
प्रहर्षं प्रीतिमानन्दं प्रियमुत्सिक्तचित्तताम्।
एतदाहुर्बुधाः शौचमशौचं शोक उच्यते॥ 7-71-20(47320)
एवं विद्वन्समुत्तिष्ठ प्रयतो भव मा शुचः।
श्रुतस्ते सम्भवो मृत्योस्तपांस्यनुपमानि च॥ 7-71-21(47321)
सर्वभूतसमत्वं च ब्रह्मणा चापि चोदितम्।
सृञ्जयस्य तु पुत्रोऽसौ मृतः सञ्जीवितः श्रुतः॥ 7-71-22(47322)
एवं विद्वन्महाराज मा शुचः साधयाम्यहम्।
एतावदुक्त्वा भगवांस्तत्रैवान्तरधीयत॥ 7-71-23(47323)
वागीशाने भगवति व्यासे व्यभ्रनभःप्रभे।
गते मतिमतां श्रेष्ठे समाश्वास्य युधिष्ठिरम्॥ 7-71-24(47324)
पूर्वेषां पार्थिवेन्द्राणआं महेन्द्रप्रतिमौजसाम्।
न्यायाधिगतवित्तानां तां श्रुत्वा यज्ञसम्पदम्॥ 7-71-25(47325)
सम्पूज्य मनसा विद्वान्विशोकोऽभूद्युधिष्ठिरः।
पुनश्चाचिन्तयद्दीनः किंस्विद्वक्ष्ये धनञ्जयम्॥ ॥ 7-71-26(47326)
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि एकसप्ततितमोऽध्यायः॥ 71 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-71-5 विस्मयेन पुण्याख्यानश्रवणजनितचित्तविस्तारेण॥ 5-71-15 नेहानियतिना ह्यस्य किं चिदव्याप्तमीहते इति क.पाठः। न चेहानयितुं शक्यं किं चिरं प्राप्यमीहता इति ङ. पाठः। नेहानेयतिना ह्यस्य किञ्चिदप्राप्यमीशितुः इति ड.पाठः॥ 5-71-17 अन्तान्मरणात्। भावगतः सम्पत्प्राप्तः। द्विजोचितां द्विजैरभिमताम्॥ 5-71-19 अधं दुःखम्॥ 5-71-71 एकसप्ततितमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|